पूर्वम्: ७।४।६७
अनन्तरम्: ७।४।६९
 
सूत्रम्
व्यथो लिटि॥ ७।४।६८
काशिका-वृत्तिः
व्यथो लिटि ७।४।६८

व्यर्थेर् लिटि परतो ऽभ्यासस्य सम्प्रसारणं भवति। विव्यथे, विव्यथाते, विव्यथिरे। हलादिः शेषेण यकारस्य निवृत्तौ प्राप्तायां सम्प्रसारणं क्रियते, वकारस्य न संप्रसारने संप्रसारणम् ६।१।३६ इति प्रतिषिद्यते। लिटि इति किम्? वाव्यथ्यते।
न्यासः
व्यथो लिटि। , ७।४।६८

"विव्यथे" इति। "व्यथ भयचलनयोः" (धा।पा।७६४), अनुदात्तेत्त्वादात्मनेपदम्()। अथ यकारस्य हलादिशेषेण निवृत्त्या भवितव्यम्(), वकारस्य सम्प्रसारणेन? इति कस्यचिद्भ्रान्तिः स्यात्(), अतस्तां निराकर्त्तुमाह--"यकारस्य" इत्यादि। "वाव्यथ्यते" इति। यङ्()॥
बाल-मनोरमा
व्यथो लिटि १९२, ७।४।६८

व्यथधातुर्द्वितीयान्तः। व्यथो लिटि। "अत्र लोपःर" इत्यतोऽभ्यासस्येति, "द्युतिस्वाप्यो"रत्यतः संप्रसारणमिति चानुवर्तते। तदाह--व्यथोऽभ्यासस्येत्यादिना। हलादिशेषापवाद इति। व्यथ् व्यथ् ए इति स्थिते हलादिशेषलभ्यं यकारस्य लोपं बाधित्वा संप्रसारणमित्यर्थः। तथा च यकारस्य इकारे पूर्वरूपे विव्यथे इति रूपम्। वकारस्य तु न संप्रसारणं, "न संप्रसारणे संप्रसारण"मिति निषेधात्। ननु संप्रसारणेन हलादिशेषबाधे थकारस्यापि निवृत्तिर्न स्यादित्यत आह-- थस्येति। यकारलोपस्य बाधं विना संप्रसारणस्य प्रवृत्त्यनुपपत्तेस्तेन तद्बाधेऽपि थकारलोपस्य बाधे प्रमाणाऽभावादिति भावः। मृद मर्दने इति। ऋदुपधोऽयम्। मर्दते। ममृदे। क्षिजधातुरिदित्। क्षञ्जते। चक्षञ्जे। नु घटादिगणेऽस्य पाठो व्यर्थः, क्षञ्जयतीत्यत्र णौ नुमि कृते अकारस्यानुपधात्वेन उपधादीर्घस्याऽप्रसक्त्या "मितां ह्यस्वः" इत्यस्याऽप्रवृत्तावपि विशेषाऽभावादनुपधात्वेन "मितां ह्यस्व" इत्यस्य प्रसक्त्यभावाच्च। अत एव अक्षञ्जि क्षञ्जं क्षञ्जिमित्यत्रापि "चिण्णमुलो"रिति दीर्घविकल्पस्यापि न प्रसक्तिरित्यत आह--मित्त्वसामथ्र्यादिति। दक्ष गतीति। ननु "दक्ष वृद्धौ शीघ्रार्थे चे"त्यनुदात्तेत्सु पाठादेव सिद्धे किमर्थमिह पाठः?, अर्थनिर्देशस्योपलक्षणत्वादेव गतिहिंसार्थकत्वस्यापि संभवादित्यत आह-- वृद्धिशैघ्र्ययोरिति। मित्त्वसामथ्र्यादनुपधात्वेऽपि चिण्णमुलोर्दीर्घविकल्पः। अदक्षिः अदाक्षि। दक्षंदक्षम्, दाक्षंदाक्षम्। क्रप कृपायां गताविति। अदुपधोऽयम्। कृपायां गतौ चेत्यर्थः। कदि क्रदि क्लदि इति नन्दिमते। क्षीरस्वामिमते च त्रय एव धातवः। मैत्रेयमते चत्वार इति बोध्यम्। तत्र इदितां त्रयाणां पौनरुक्त्यं परिहरति-- कदिक्रदिक्लदिनामित्यादिना। ञित्वरेति। ञिरित्। "ञीतः क्तः" इति क्तः प्रयोजन्। आदित्त्वं तु "आदितश्चे"ति निष्ठायामिण्निषेधार्थम्। वस्तुतस्तु आदित्त्वं व्यर्थं, ह्यस्वेऽप्यात्नेपदसिद्धेः "रुष्यमत्वरसङ्घषास्वना"मिति निष्ठायामिड्विकल्पसिद्धेश्च। घटादयः षित इति। "त्वरत्यन्ता" इति शेषः। घटादिषु त्रयोदशानुदात्तेतो गताः। "द्युत दीप्तौ" इत्यतः प्राग्घटादिसमाप्तिरिति वक्ष्यते। अथ फणान्ता इति। "फण गता" वित्येतत्पर्यन्ता इत्यर्थः। ज्वर रोगे इति। णौ ज्वरयति। चिणि तु अज्वरि-- अज्वारि। णमुलि तु --ज्वरंज्वरं ज्वारंज्वारम्। एवमग्रेऽपि ज्ञेयम्। हेड वेष्टन इति। डकारादकार उच्चारणार्थः। ततश्च "नाग्लोपिशास्वृदिता"मिति निषेधो न भवति। स एवेति। हेडृधातुरेव ऋकारानुबन्धमुत्सृज्य वेष्टनरूपेऽर्थविशेषे मित्त्वार्थमनूद्यते इत्यर्थः। धात्वन्तरत्वे तु मित्त्वतदभावयोर्विकल्पः स्यादिति भावः। नन्वात्मनेपदिन एवाऽत्रानुवादे परस्मैपदं न स्यादित्यत आह---परस्मैपदिभ्य इति। यदि त्वात्नेपदमिष्टं तर्हि घटादिषु त्वरत्यन्तेष्वेवानुदात्तेत्सु पठ()एतेति भावः। हेडतीति। वेष्टते इत्यर्थः। हिडयतीति। वेष्टयतीत्यर्थः। "हेतुमती"ति णिचि "मितां ह्यस्वः" इति ह्यस्व इति भावः। अडिहि अहीडीति। "चिण्णमुलो"रिति दीर्घविकल्पः। हेडयतीति। वेष्टनरूपाऽर्थ एव मित्त्वान्न ह्यस्व इति भावः। "वट परिभाषणे" इति नाऽपूर्वो धातुरित्याह--वट वेष्टने इत्यादि। अनुवाद इति। धात्वन्तरत्वे तु मित्त्वतदभावयोर्विकल्पः स्यादिति भावः। "णट नृत्तौ" इत्यस्य पौनरुत्तयमाक्षिपति-- इत्थमेवेति। "टवर्गान्तेष्विटति शेषः। तथा च उभयोरप्यर्थैक्येन अर्थविशेषे मित्त्वार्थमिहानूद्यते इति परिहारस्याऽसंभवात्पौनरुक्त्यमेवेति भावः। परिहर्तुमुपक्षिपति-- तत्रायं विवेक इति। तत्र = तयोर्धात्वोः, अयं = वक्ष्यमाणः, विवेकः = अर्थभेदः, प्रत्येतव्य इत्यर्थः। पूर्वं पठतस्येति। टवर्गान्तेषु पठितस्येत्यर्थः। यत्कारिष्विति। यस्य कर्तृषु नटव्यवहारस्तन्नाट()ं पूर्वं पठितस्यनटधातोरर्थ इत्यर्थः। किं तन्नाट()मित्यत्राह--वाक्यर्थेति। घटादौ त्विति। यस्य कर्तृषु नर्तकव्यपदेशस्तन्नृत्यं, नृत्तं च घटादौ पठितस्य नटेरर्थः इत्यर्थः। नृत्यनृत्तयोः को भेद इत्यत आह-- पदार्थेति। एवंच टवर्गान्तेषु पठितस्य घटादगतस्य चाऽर्थभेदसत्त्वादर्थविशेषे मित्त्वार्थोऽनुवाद इति युज्यते। धात्वन्तरत्वे तु भित्त्वतदभावयोर्विकल्पः स्यादिति भावः। अथ नटधातोरस्य णोपदेशपर्युदासभ्रमं वारयति--णोपदेशेति। "अनर्द्()नाटी"त्यादिपर्युदासवाक्ये नाटीति णिज्लक्षणवृद्धिनिर्देशेन "नट अवस्पन्दने" इति चौरादिकस्यैव ग्रहणादयं णोपदेश एवेत्यर्थः। ष्टकधातुः षोपदेशः। कृतष्टुत्वस्य निर्देशः। स्तकतीति। "धात्वादे" रिति षस्य सत्वे ष्टुत्वनिवृत्तिः। चक तृप्तौ। तृप्तीति। "चक तृप्तौ प्रतीघाते चे"त्यात्मनेपदिषु पठितस्य तृप्तावर्थे मित्त्वार्थोऽत्राऽनुवाद इत्यर्थः। एवं च धात्वन्तरत्वाऽभावान्न मित्त्वततदभावविकल्पः। ननु आत्मनेपदिषु पठितस्यात्रानुवादादात्मनेपदं स्यादित्यत आह-- आत्नेपदिष्विति। षगे ष्टगे इति। षोपदेशौ। ष्टगे इति कृतष्टुत्वनिर्देशः। कगे नोच्यत इति। ननु यदि न कोऽपि क्रियाविशेषोऽस्यार्थस्तर्हि कथमयं धातुरित्यत आह-- क्रियासामान्यार्थवाचित्वादिति। धातुपाठपठितस्य क्रियाविशेषार्थकत्वाऽभावे सति क्रियासामान्यवाचित्वं परिशेषलभ्यमिति भावः। अनेकेति। "कलिः कामधेनु"रिति न्यायेन कलधातुवदपरमितार्थकत्वमिति भावः। श्रथ क्नथ क्रथ क्लथ इति। चत्वारोऽपि द्वितीयान्ताः। आद्यतृतीयौ रेफमध्यौ। द्वितीयो नकारमध्यः। चतुर्थस्तु लकारमध्यः। आद्यस्तु शकारादिः। इतरे ककारादयः। ननु क्रथधातोर्घटादित्वेन मित्त्वाण्णौ उपधावृद्धिसंपन्नस्य अकारस्य "मितां ह्यस्व" ति ह्यस्वत्वे क्रथयतीति स्यान्नतु क्राथयतीति। तत्राह-- जासिनीति। "जासिनिप्रहणनाटकाथपिषां हिंसाया"मिति षष्ठीविधौ णौ मित्()वेऽपि क्राथेति वृद्धिर्निपात्यत इत्यर्थः। नन्वेवं सति घटादौ क्रथधातोः पाठो व्यर्थ इत्यत आह-- मित्त्वं त्विति। चिण्णमुलोर्दीर्घपक्षे चरितार्थमित्यन्वयः। ननु तत्रापि क्राथेति निपातनाद्वृद्धिरित्यत आह-- निपातनात्परत्वादिति। "क्राथे"ति निपातनापेक्षया "चिण्णमुलो"रित्यस्य परत्वादित्यर्थः। यद्यपि "मितां ह्यस्वः" इत्यपि परन्तथापि पुरस्तादपवादन्यायेन क्राथेतिवृद्धिनिपातनं "मितां ह्यस्वः" इत्यस्यैवाऽव्यवहितस्य बाधकं, नतु "चिण्णमुलो"रित्यस्यापि, तस्य व्यवहितत्वादिति बोध्यम्। अक्रथि--अक्राथीति। क्रथेण्र्यन्ताच्चिणि दीर्घविकल्पः। क्रथंक्रथं क्राथंक्राथमिति। णमुलि दीर्गविकल्पः। वन चेति। चकारो हिंसानुकर्षकः। तदाह---हिंसायामितीति। वन शब्दे, वन संभक्ताविति पठितस्य हिंसायां मित्त्वार्थोऽत्रानुवादः। वनति। णौ तु --वनयति। णमुलि तु वनंवनं वानंवानम्। वनु च नोच्यते इति। "कगे नोच्यते" इति वद्व्याख्येयम्। नन्वन्यत्र पठितस्य घटादौ मित्त्वार्थोनुवाद इति सिद्धान्तात्तनादौ "वनु याचने" इति पठितस्य अनुदात्तेतोऽनुवादात्क्रियासामान्येऽर्थे वनुते इत्यात्मनेपदम्, उप्रत्ययश्च स्यादित्यत आह--अपूर्व एवायमिति। उदित्करणेति। यदि तानादिकस्यैव अत्रानुवादः स्यात्तर्हि तनादिगणे "वनु" ति कृतेन उदित्करणेनैव "उदितो वे"त्याद्युदित्कार्यस्य सिद्धेरिह गणे पुनरुदित्करणमनर्थकं स्यात्। अतस्तानादिकस्य नात्रानुवादः, किं त्वपूर्व एवायं वनुधातुः। तथाच "वनती"ति परस्मैपदं, शब्विकरणं चेत्याह-- तेन क्रियासामान्ये वनतीत्यादीति। आदिना वनतः वन्नतीत्यादिसङ्ग्रहः। प्रवनयतीति। घाटादिकस्य क्रियासामान्यवाचिनो णिचि मित्त्वाद्ध्रस्वः। वक्ष्यत इति। "ग्लास्नावनुवमां चे"त्यनेने"ति शेषः। तानादिकात्तु वनु याचने इत्यस्माण्णिचि उपधादीर्घे "वानयती"त्येव भवति। ज्वल दीप्तौ। मप्रत्ययार्थमिति। "ज्वलितिकसन्तेभ्यो णः" इति णप्रत्ययार्थं ज्वलादिगणे पठिष्यमाणस्य इह मित्त्वार्थोऽनुवाद इत्यर्थः। ज्वलतीत्यादि सिद्धवत्कृत्य मित्त्वस्य णौ ह्यस्वं प्रयोजनमाह-- प्रज्वलयतीति। धात्वन्तरत्वे तु मित्त्वतदभावयोर्विकल्पः स्यादिति बोध्यम्। स्मृ आध्याने। चिन्तायामिति। "स्मृ चिन्ताया"मिति पठिष्यमाणस्य आध्याने मित्त्वार्थोऽनुवाद इत्यर्थः। चिन्ताया आद्यानमन्यदिति दर्शयितुमाह--आध्यानमुत्कण्ठेति। दृ? भये इति। अस्य दृणातीति रूपं,न तु शप्। तदाह--मित्वार्थोऽनुवाद इति। "भयेऽर्थे मित्त्वार्थ"मिति शेषः। अर्थनिर्देशस्य उपलक्षणत्वाद्भये वृत्तिः। तथाच ऋयादित्वात् श्नविकरण एवायमिति भावः। मित्त्वप्रयोजनं दर्शयति-- दरयतीति। भीषयतीत्यर्थः। दारयतीति। भेदयतीत्यर्थः। धात्वन्तरमेवेति। नतु क्रयादेरनुवाद इत्यर्थः। अस्मिन्मते भौवादिकत्वाच्छबेवेत्याह--दरतीत्यादीति। सूत्रे चेति। "अत्स्मृद्दृत्वरप्रथम्दस्तृ()स्पशा"मित अत्वविधावित्यर्थः। ह्यस्वं पठन्तीति। तन्मते क्र्यादेरनुवादप्रसिक्तिरेव नास्तीति भावः। तन्नेतीति। यदि ह्रयं घटादौ ह्यस्वान्तः, क्र्यादौ तु दीर्घान्तो भवेत्तर्हि "शृ()दृ()प्रां ह्यस्वो वे"त्यत्र दृ()ग्रहणमनर्थकं स्यात्। ह्यस्वदीर्घान्तधातुभ्यामेव तत्फलसिद्धेरिति भावः। नृ? नये इति। नयः -- नयनम्। क्र्यादिष्विति। "नृ? नये" इत्येव क्र्यादिषु पठ()ते। तत्रार्थनिर्देशो न विवक्षितः। क्र्यादिषु पठिष्यमाणस्य नृ()धातोर्नयादन्यत्र विद्यमानस्य नयेऽर्थे मित्त्वार्थोऽनुवाद इत्यर्थः। तथा च श्नविकरण एवायम्। नृणातेर्धातत्वन्तरत्वाऽभावान्न मित्त्वतदभावौ। अपि तु नित्यमेव मित्त्वम्। श्रा पाके इति। नन्वत्र भ्वादौ पठ()मानाच्छ्रायतेः, उत्तरत्र अदादौ पठिष्यमाणाच्च श्रान्तेरन्य एव यदि कश्चन स्वतन्त्रो धातुर्घटादौ निर्दिश्येत तदा प्रकृते लटि शपि श्रातीति रूपसंपत्त्या लुग्विकरणस्थेन "श्रा पाके" इत्यनेन पौनरुक्त्यमित्यत आह--श्रै इतीति। अग्रे भ्वादिगणे "श्रै पाके" इति पठिष्यते, तस्य कृतात्वस्यानुकरणमित्यन्वयः। तथाच तस्यैव श्रैधातोरनेकार्थकतया पाके वृत्तस्य मित्त्वार्थमत्रानिवादाच्छपि श्रायतीत्यादि रूपम्। एतच्च "शृतं पाके" इति सूत्रे भाष्येकैयटयोः स्थितम्। एवं च "सति संभवेऽन्यत्र पठितनामिह मित्त्वार्थोऽनुवाद" इति सिद्धान्तादग्रे भ्वादौ "श्रै पाके" इत्यस्य पौनरक्त्यं न शङ्क्यम्। नन्वेवं सति "श्रै पाके" इत्येवात्र कुतो न पठितमित्यत आह--श्रा इत्यादादकस्य चेति। ननु लाक्षणिकत्वात् " श्रै पाके" इति भौवादिकस्य कृतात्वस्याप्यनुवाद इति न युज्यत इत्यत आह-- लुग्विकरणेत्यादि, परिभाषाब्यामित्यन्तम्। परिभाषाभ्यामुभयोरनुकरणमित्यन्वयः। "स्वरतिसूयती"ति सूत्रे "सू" इति पठितेऽपि द्वयोग्र्रहणे सिद्धे सूतिसूयत्योः पृथग्ग्रहणं "लुग्विकरणे"ति परिभाषां ज्ञापयतीत्याहुः। प्रतिपदोक्तपरिभाषा तु न्यायसिद्धेत्युक्तमेव। श्रपयतीति। श्रैधातोर्णिचि "आदेच उपदेशे" इत्यात्वे "अर्तिह्यी"ति पुकि "मितां ह्यस्वः"। श्राधातोस्तु स्वत एवाऽ‌ऽदन्तत्वाण्णिचि पुकि ह्यस्वः। पाकादन्यत्रेति। अर्थनिर्देशस्योपलक्षणत्वादिति भावः। मारणति। मारणे तोषणे निशामने च ज्ञाधातुर्वर्तत इत्यर्थः। अक्षतस्य मारमे संपूर्वकस्यैव ज्ञाधातोः प्रयोगः। चाक्षुषज्ञानमिति। निपूर्वकाच्छम आलोचने इत्यस्माच्चौरादिकण्यन्ताल्ल्युटि निशामनशब्दस्य निष्पत्तेरिति भावः। ज्ञापनमात्रमिति। उपसर्गवशादिह ज्ञापने वृत्तिः, चाक्षुषत्वं च ज्ञानस्य यन विवक्षतमिति भावः। निशानेष्विति। "मराणतोषणनिशामनेषु ज्ञे"ति पाठान्तरमित्यर्थः। ननु ज्ञाधातोरस्माल्लडादौ शपि "ज्ञाजनोर्जे"ति जादेशे जाति जात इत्यादि स्यादित्यत आह--एष्वेवेति। "ज्ञा अवबोधने" इति श्नविकरणस्यैव मारणादिष्वर्थेषु णौ मित्त्वार्थमिहानुवादात् श्नविकरण एवायमिति भावः। जानातेर्मित्त्वफलं तु णौ ह्यस्वः-- "पशुं संज्ञपयति"। अक्षतं मारयतीत्यर्थः। "हरिं ज्ञपयति"। संतोषयीत्यर्थः। "रूपं ज्ञपयति"। माधवमते दर्शयतीत्यर्थः। मतान्तरे तु बोधयतीत्यर्थः। "शरं ज्ञपयति"। तीक्ष्णीकरोतीत्यर्थः। ननु माधवमते बोधयतीत्यर्थे ज्ञपयतीति कथं मित्त्वम्, तन्मते चाक्षुषज्ञानस्यैव निशामनशब्दार्थत्वादित्यत आह---ज्ञप मिच्चेति चुरादाविति। एवं च चौरादिकं ज्ञाधातुमादाय बोधनेऽप्यर्थे ज्ञपयतीति ह्यस्वः सङ्गच्छते इति भावः। शृण्विति। "उत्तर"मिति शेषः। मित्त्वाऽभावादिति। "ह्यस्वो ने"ति शेषः। "विज्ञापने"त्यत्र "तज्ज्ञापयती"त्यत्र च अचाक्षुषमेवाऽ‌ऽत्मज्ञानं विवक्षितमिति भावः। ननु "ज्ञापनमात्रे मित्त्व"मिति मते "विज्ञापने"त्यत्र "तज्ज्ञापयती"त्यत्र च मित्त्वं दुर्वारमित्यत आह---ज्ञापनमात्रे इति। चौरादिकस्येति। "विज्ञापनेति ज्ञापयतीति च रूप"मिति शेषः। "नान्ये मितोऽहेतौ" इति निषेधान्न तस्य मित्त्वमिति भावः। ननु नियोगार्थस्य तस्य कथं ज्ञापने वृत्तिरित्यत आह-- धातूनामिति। न कापीति। "विज्ञापने"त्यत्र, "ज्ञापयती"त्यत्र च ज्ञापनार्थवृत्तित्वाज्ज्ञापनस्य च मारणतोषणतीक्ष्णीकरणान्यत्वान्न तस्मिन्नर्थे ज्ञाधातोर्मित्त्वप्रसक्तिरिति भावः। एवं च माधवमते बोधने ज्ञाधातोज्र्ञापयतीत्युपधादीर्घः। ज्ञपधातोस्तु ज्ञपयतीत्युपधाह्यस्व इति रूपद्वयमपि साध्विति स्थितम्। कम्पने चलिरिति। इका निर्देशोऽयम्। चलधातुः कम्पने मिदित्यर्थः। ज्वलादिरिति। तस्य चलेः कम्पने मित्त्वार्थोऽत्रानुवाद इति भावः। शीलं चालयीति। अत्र कम्पनार्थकत्वाऽभावान्न मित्त्वमिति भावः। तदाह--अन्यथा करोतीत्यर्थ इति। धातूनामनेकर्थत्वादिति भावः। छदिरूर्जने इति। इका निर्देशोऽयम्। छदधातुरूर्चजने मिदित्यर्थः। ऊर्जनं-- बलवत्करणं, प्राणनं वा, "ऊर्ज बलप्राणनयो"रित्युक्तेः। अन्यत्र पठितस्यात्रार्थविशेषे णौ मित्त्वार्थोऽनुवाद इति सिद्धान्तः। छदधातुस्त्वयं चुराद्यन्तर्गणे युजादौ पठितः। तस्याऽत्रानुवादो व्यर्थः, "नान्ये मितोऽहेता"वित ज्ञापादिपञ्चकव्यतिरिक्तस्य चुरादौ मित्त्वनिषेधादित्यत आह-- छद अपवारणे इति। चुराद्यन्तर्गणयुजादिपठितस्य "आ धृषाद्धे" ति स्वार्थिकणिजभावपक्षे ऊर्जनेऽर्थे मित्त्वार्थोऽनुवाद इत्यर्थः। [हेतुमण्णिचीतियावत्]। स्वार्थिकणिचि सत्येव "नान्ये मित" इति निषेधप्रवृत्तिरिति भावः। नन्वपवारणार्थकस्य छदेः कथमूर्जने वृत्तिरित्यत आह-- अनेकार्थत्वादिति। नु स्वार्थणिजभावे सति मित्त्वं किमर्थमित्यत आह-- छदयतीति। अत्र हेतुमण्णिचि ह्यस्वः। "नान्ये मित" इति निषेधस्तु हेतुमण्णिचि नेति भावः। अन्यत्रेति। ऊर्जनादन्यत्र अपवारणे इत्यर्थ-। स्वार्थे णिचि त्विति। "नान्ये मितः" इति निषेधस्य तत्र प्रवृत्तेरिति भावः। जिह्वोन्मथने लडिरिति। इका निर्देशोऽयम्। लडधातुर्जिह्वोन्मथने मिदित्यर्थः। लडेति। "लड विलासे" इति टवर्गान्तेषु भ्वादौ पठितस्य जिह्वोन्मथनेऽर्थे मित्त्वार्थोऽनुवाद इत्यर्थः। एवं च धातुभेदाऽभावात्सर्वथैव मित्त्वकार्यं भवति। गणभेदाद्धातुभेदे मित्त्वतदभावयोर्विकल्पः स्यादिति भावः। लडयति जिह्वामिति। रसनां रसान् ज्ञापयतीत्यर्थः। "गतिबुद्धी"ति द्विकर्मकोऽयम्। लडयति जिह्वयेति। देवदत्तो रसान् जानाति, तज्जिह्वया ज्ञापयतीत्यर्थः। तद्व्यापार इति। शब्दप्रयोगादिजह्वाव्यापार इत्यर्थः। समाहारेति। जिह्वा च उन्मथनं चेति समाहारद्वन्द्वः। जिह्वाव्यापारे उदाहरति-- लडयति शत्रुमिति। "गेहेशूर" इत्यादिशब्दप्रयोगेण गर्हत इत्यर्थः। "उन्मथनं लोडन"मित्यभिप्रेत्योदाहरति-- लडयति दधीति। विलोडयतीत्यर्थः। अन्यत्रेति। जिह्वोन्मथनादन्यत्रेत्यर्थः। लाडयति पुत्रमिति। क्रीरडयतीत्यर्थः। ग्लेपनं दैन्यमिति। दीनीभवनमित्यर्थः। ननु लडादौ शपि मदतीत्यादि स्यादित्यत आह--दैवादिकस्येति। तथा च श्यन्विकरण एवाऽयमिति भावः। ध्वन शब्दे इति। पूर्वमनुनासिकान्तेषु "अण रणे"त्यत्र ध्वणधातुर्मूर्धन्यान्तः पठितः, अयं तु दन्त्यान्त इति भेदः। भावीति। ज्वलादौ "ध्वन शब्दे" इति पठिष्यमाण एवात्र ध्वन्यात्मके अनुच्चारणजन्ये शब्दने मित्त्वार्थमनूद्यते इत्यर्थः। धातुभेदे तु मित्त्वतदभावौ स्यातामिति भावः। ध्वनयति घण्टामिति। शब्दायमानां करोतीत्यर्थः। अन्यत्रेति अस्पष्टोच्चारणात्मके शब्दने इत्यर्थः। अत्रेति। "घटादा"वित्यर्थः। तत्रेति। दलिवल्यादिष्वित्यर्थः। उदाह्मताविति। "घटादा"विति शेषः। तत्र ध्वनिरनुपदमेवोदाह#ऋतः।रणिस्तु "कण रण गता"वित्यत्रेति बोध्यम्। भोजमते प्रागनयोःपाठो नेति न पौनरुक्त्यम्। गता इति। भ्वादौ पठिता इत्यर्थः। "इह मित्त्वार्थमनूद्यन्ते" इति शेषः। धात्वन्तरत्वे तु मित्त्वतदभावौ स्यातामिति भावः। ननु क्षपेरत्र पाठान्मित्त्वे णौ ह्यस्वे "क्षपयती"ति वक्ष्यति। अस्त्वेवम्, तथापि "क्षै क्षये" इति भ्वादौ पठिष्यमाणस्य णौ आत्वे पुकि क्षापयतीत्यपि स्यात्, क्षैधातोः क्षपीत्यनुवादाऽसंभवात्। तत्राह--- क्षै इत्यादि। णौ आत्वे पुकि मित्त्वाद्ध्रस्वे सति क्षपीति क्षै इत्यस्यानुवादसंभव इति भावः। स्वन अवतंसने इति। अवतंसनम्---अलङ्कृतिः। पठिष्यमाणस्येति। घटादिगणादूध्र्वं "स्वन शब्दे" इति पठिष्यमाणस्य स्वनेरवतंसनेऽर्थे णौ मित्त्वार्थोषऽत्रानुवाद इत्यर्थः। धात्वन्तरत्वे तु मित्त्वतदभावौ स्यातामिति भावः। घटादयो मित इति। गणसूत्रम्। ननु घटादिषु मकारानुबन्दाऽदर्शनात्कथं मितस्ते स्युरित्यत आह--मित्संज्ञका इति। मित्कार्यभाज इत्यर्थः। जनीजृषिति। गणसूत्रम्। जनी जृ()ष् क्नसु रञ्ज् एषां द्वन्द्वात्प्रथमाबहुवचनम्। अम् अन्ते येषां ते अमन्ताः-- क्रिमिगम्यादयः। एते अघटादित्वेऽपि मित इत्यर्थः। जीर्यतेरिति। "जृ()ष् वयौहानौ" इति श्यन्विकरणस्येत्यर्थः। जृणातेस्त्वति। "जृ? वयोहानौ" इति श्नविकरणस्य षित्त्वाऽभावेनात्र ग्रहणाऽभावान्न मित्त्वमिति भावः। उदाहरन्ति। तन्मते जृणातेरप मित्त्वमिति भावः। ज्वलह्वलेत्यपि गणसूत्रम्। प्राप्तविभाषेयमिति। ज्वहह्वलहृलां घटादित्वान्नमेर्मान्तत्वाच्च मित्त्वस्य प्राप्तेरिति भावः। उपसृष्टे त्विति। सोपसर्गे त्वित्यर्थः। कथं तर्हीति। रानुपसर्गादिति विशेषणे सति ज्वलेर्नमेश्च णौ मित्त्वविकल्पाऽभावाज्जनीजृ()षिति मित्त्वाद्ध्रस्वो नित्यः स्यादित्याक्षेपः। समाधत्ते-- घञन्तादिति। तत्करोतीति णावित्यनन्तरं "समाधेय"मिति शेषः। प्रज्वलनं प्रज्वालः। उन्नमनम् उन्नामः। भावे घञ्। उपधावृद्धिः। प्रज्वालं करोतीति, उन्नामं करोतीति चार्थे "तत्करोति तदाचष्टे" इति णिचि "णाविष्ठव"दितीष्ठवत्त्वाट्टिलोपे सति तस्य स्थानिवत्त्वान्मित्त्वप्रयुक्तह्यस्वाऽभावे प्रज्वालि उन्नामीत्याभ्यां लटि तिपि शपि गुणे अयादेशे प्रज्वालयति उन्नामयतीति रूपं इति भावः। ननु संपूर्वात्क्रमेर्णौ संक्रामयतीति रूपमिष्यते, तत्र अमन्तत्वेन मित्त्वाद्ध्रस्वप्रसङ्गः। नच क्रमणं क्राम इति घञन्तात्ततत्करोतीति णावुक्तरीत्या ह्यस्वाऽभाव इति कृत्वा समाधानं संभवति, क्रमेर्घञि हि "नोदात्तोपदेशस्ये"ति वृद्धिप्रतिषेधे सति "क्रम" इत्येव भवति, नतु "क्राम" इति कृत्वा उक्तसमाधानाऽसंभवादित्यप्रेत्याक्षिपति--- कथमिति। समाधत्ते-- मितामिति। "मितां ह्यस्वः" इति सूत्रे वेत्यनुवर्त्त्य मित्त्वाऽभावे संक्रामयतीति रूपमित्यन्वयः। ननु कदाचिद्ध्रस्वो दुर्वार इत्यत आह-- व्यवस्थितेति। तथा चात्र ह्यस्वाऽभाव एवाश्रीयत इति भावः। वृत्तिकृदिति। भाष्ये तु नैतत् दृश्यते इति भावः। एतेनेति। व्यवस्थितविभाषाश्रयणेनेत्यर्थः। "ग्लास्नावनुवमां चे" त्यपि गणसूत्रम्। प्रथमार्थे षष्ठी। अनुपसर्गादिति, मित इति, वेति चानुवर्तते। फलितमाह-- अनुपसर्गादिति। आद्ययोरिति। ग्ला स्ना इत्यनयोरघटादित्वादप्राप्ते मित्त्वे, इतरयोर्वनुवमोः प्राप्ते मित्त्वे विभाषेत्यर्थः। तत्र वनेः "वनु च नोच्यते" इति घटादौ पाठाद्वमेस्त्वमन्तत्वान्मित्त्वप्राप्तिरिति बोध्यम्। "न कम्यमिचमा"मिति "शमो दर्शने" इति च गणसूत्रम्। दर्शनं-- चाक्षुषज्ञानम्। "शम उपशमे" इति दैवादिकः श्यन्विकरणः एवात्र गृह्रते नतु "शम आलोचने" इति चौरादिकः, "नान्ये मितोऽहेतौ" इति तस्य मित्त्वनिषेधात्। तद#आह-- शाम्यतिरिति। निशामयति रूपमिति। पश्यतीत्यर्थः। उपशमार्थकस्यापि अनेकार्थत्वाद्दर्शने वृत्तिः। अन्यत्रेति। दर्शनादन्यत्रेत्यर्थः। निशमय्येति। श्रावयित्वेत्यर्थः। शमेण्र्यन्तात् क्त्वो ल्यपि कृते "ल्यपि लघुपूर्वा"दिति णेरयादेशः। कथमिति। तर्हि-- तर्हि-- दर्शनार्थकस्यैव शमेर्मित्त्वनिषेधे सति, "शृणु" इत्यर्थे मित्त्वाद्ध्रस्वप्रसङ्गन्निशामयेति कथमित्याक्षेपः। समाधत्ते--- चौरादिकस्येति। "निशामयेति रूप"मिति शेषः। "नान्ये मितोऽहेता"विति तस्य मित्त्वनिषेधान्न ह्यस्व इति भावः। ननु चौरादिकस्य शमेरालोचनार्थकत्वात्कथं श्रवणे वृत्तिरित्यत आह-- धातूनामिति। साम्यतिवदिति। श्यन्विकरणस्य शमेरुपशमार्थकस्य यथा दर्शन वृत्तिस्तद्वदित्यर्थः। "यमऽपरिवेषणे" इत्यपि गणसूत्रम्। भोजनपात्रे ओदनाऽपूपादिभोज्यद्रव्याणां स्थापवनं परिवेषणम्। तदाह--भोजनातोऽन्यत्रेति। भुक्त्यनुकूलपरिवेषणादन्यत्रेत्यर्थः। आयामयतीति। अत्राऽपरिवेषणे वृत्तेर्न मित्त्वमिति भावः। तदाह--द्राघयतीति। दीर्घीकरोतीत्यर्थः। व्यापारयतीति। प्रवर्तयतीत्यर्थः। यमयति ब्राआहृणानिति। परिवेषमार्थकत्वान्मत्त्वमिति भावः। तदाह-- भोजयतीति। भुञ्जते ब्राआह्मणाः, तान्परिवेषणेन प्रवर्तयतीत्यर्थः। ननु "पर्यवसितं नियमय"न्नित्यत्र अपरिवेषणार्थकतया मित्त्वाऽभावात्कथं ह्यस्व इत्यत आह-- पर्यवसितमित्यादि। नियमनं नियमः। "यमः समुपनिविषुचे"ति भावेऽप्प्रत्ययः। तस्मान्मतुप्। नियमवच्छब्दात्तकरोतीति णिचि "वन्मतोर्लु"गिति मतुपो लुकि ण्यन्ताल्लटश्शतरिगुणाऽयमादेशयोर्नियमयच्छब्द इति भावः। वस्तुतस्तु मतुपो लुकि टिलोपस्याऽप्राप्त्या "अचो ञ्णिती"ति वृद्धौ पुगागमापत्तिः। ततश्च नियमवदित्यर्थकादर्शाअद्यजन्तान्नियमशब्दात् "तत्करोती"ति णिचि इष्ठवत्त्वाट्टिलोपे तस्य स्थानिवत्त्वादुपधावृद्ध्यभावे "नियमय"न्निति समर्थनीयमिति शब्देन्दुशेखरे स्थितम्। स्खदिरवपरिभ्यां चेत्यपि गणसूत्रम्। स्खदिरिति इका निर्देशः। अव परि-आभ्यां परः स्खदधातुर्मिन्नेत्यर्थः। स्खद स्खदने इति घटादौ पाठान्मित्त्वप्राप्तिः। परिस्खादयतीति। अषोपदेशत्वेन आदेशसकारत्रापि मित्त्वाऽभावान्न ह्यस्वः। स्वामी त्विति। "न कम्मिचमा" मित्यत्र श्रुतो नञ् "शमो दर्शने" "यमोऽपरिवेषणे" "स्खदिरवपरिभ्यां चे"ति त्रिषु सूत्रेषु नानुवर्तते। शमः-- अदर्सने इति च्छेदः। शमधातुर्दर्शने मित्स्यादित्यर्थः। अमन्तत्वादेव सिद्ध#ए नियमार्थमिदम्। "अदर्शन एव शमधातुर्मित्स्यान्नतु दर्शने" इति स्वाभिमतम्। इदं च पर्यवसानगत्या पूर्वमतान्नाऽतिरिच्यते। यमस्त्विति। यमदातोस्तु अपरिवेषण एव मित्त्वमाहेत्यर्थः। अमन्तत्वादेव सिद्धेरपरिवेषण एव यमधातुर्भिन्न तु परिवेषण इति फलति। एवं च द्राघयति व्यापारयति वेत्यर्थे मित्तवाद्ध्रस्वे "आयमयती"त्येव रूपम्। परिवेषणे तु मित्त्वाऽभावाद्ध्रस्वाऽभावे "यामयति ब्राआहृणा"निति भवतीति पूर्वमताद्विपरीतं फलति। एवं च "पर्यवसितं नियमय"न्नित्यत्र यमेरपरवेषणार्थत्वान्मित्त्वे ह्यस्वो निर्बाधः। तदाह--तन्मते इति। स्खदेर्घटादित्वादेव मित्त्वसिद्धेः "स्खदिरवपरिभ्यां चे"ति सूत्रमपि नियमार्थम्। "सोपसर्गस्य चेत्स्खदेर्मित्त्वं तर्हि अवपरिभ्यां परस्यैव मित्त्वं न तूपसर्गान्तरा"दिति। एवं च प्रस्खादयतीत्यत्र मित्त्वाऽभावान्न ह्यस्वः। अवस्खदयति परिस्खदयतीत्यत्र तु मित्त्वाद्ध्रस्व इति फलति। तदाह--उपसृष्टस्येति। सोपसर्गस्येत्यर्थः। पूर्वमते तु अवपरिभ्यां परस्य मित्वनिषेधादवस्खादयति परिस्खादयतीति न ह्यस्वः। प्रस्खदयतीत्यत्र तु अवपरिपूर्वकत्वाऽभावेन मित्त्वनिषेधाऽभावाद्ध्रस्व इति विपरीतम्। तस्मादिति। "यमोऽपरिवेषणे", "स्खदिरवपरिभ्यां चे"ति सूत्रद्वये उक्तरीत्या मित्त्वनियमविध्याश्रयणादुदाहरणप्रत्युदाहरणयोरुक्तरीत्या व्यत्यासः फलित इत्यर्थः। उपेक्ष्यमिति। "न पादम्या"ङिति सूत्रव्याख्यावसरे "यमोऽपरिवेषणे इति मित्त्वं प्रतिषिध्यत" इति वृत्तिन्यासयोरुक्तत्वादिति भावः। केच्चित्तु स्वामिमते "पर्यवसितं नियमय" न्नित्यादिसामञ्जस्यात्तावेवोपेक्ष्यावित्याहुः। फण गताविति। ननु घटादित्वेऽपि नायं मित्, इतः प्राक् "स्वन अवतंसने" इत्युत्तरमेव "घटादयो मित" इत्युक्तेः। अतः कथमत्र निषेधः। तत्राह-- नेति निवृत्तमिति। प्रा()प्त विना मित्त्वस्य निषेधाऽसंभवादिह नेति नानुवर्तते, किंतु मिदित्येवानुवर्तते इत्यर्थः। ननु फम गतावित्यत्र मिन्नेति यदि नानुवर्तते। "घ्वसोः" इत्यत एदिति, "गमहने" त्यतः कितीति, "वा जृ()भ्रमुत्रसा"मित्यतो वेति च। तदाह--एषामिति। फणादीनामित्यर्थः। फणामिति बहुवचनात्तदादिलाभः। "फण गतौ" इत्यत्र मिदित्येवानुवर्तते, नेति तु नानुवर्तते इत्यस्य प्रयोजनमाह--फणयतीति। वृदिति-- कर्तरि क्विबन्तम्। वृतुधातुरिह समाप्त्यर्थकः। तदाह--घटादिः समाप्त इति। फणेः प्रागेवेति। एवं सति फणेरघटादित्वान्न मित्त्वमित#इ भावः। तदाह--तन्मते फणयतीत्येवेति। इति घटादयः। राजृ दीप्ताविति। इत आरभ्य षण्णामेत्त्वाऽभ्यासलोपौ फणादित्वात्पक्षे भवतः। तदाह--रेजतुरित्यादि। ननु "फमां च सप्ताना"मित्यत्र अत इत्यनुवृत्तेः कथमिह एत्त्वाभ्यासलोपावित्यत आह--अत इत्यनुवृत्तावपिति। अत इति नानुवर्तते। तदनुवृत्तावपि फणादिसप्तानामपि वचनसामथ्र्याद्राजृधातोराकारस्याप्येत्त्वाभ्यासलोपस्य विकल्पः स्यादेवेत्यर्थः। "अत" इति राजादिधातौ न संबध्यते, असंभवादिति यावत्। टु भ्राजृ इत्यादि। टुरित् "ट्वितोऽथुच्" इत्येतदर्थः। अनुदात्तेत इति। "एते त्रय" इति शेषः। ननु पूर्वं चवर्गान्तेष्वनुदात्तेत्सु भ्राजतेः पठात्पुनरपि तस्येह पाठः किमर्थ इत्यत आह-- भ्राजतेरिति। तर्हि "एजृ भ्रेजृ भ्राजृ दीप्तौ" इति भ्राजेः पूर्वं पाठो व्यर्थ इत्यत आह-- पूर्वं पाठस्त्विति। षत्वाऽभावार्थ इति। "व्रश्चभ्रस्जे" ति षत्वविधौ भ्राजेग्र्रहणाऽभावार्थ इत्यर्थः। ननु पूर्वं पठितस्यापि षत्वविधौ कुतो न ग्रहणमित्यत आह-- तत्र हीति। षत्वविधौ हीत्यर्थः। एत्त्वाभ्यासलोपयोः पाक्षिकत्वादाह--भ्रेजे बभ्राजे इति। द्वावपीमाविति। द्वितीयतृतीयावित्यर्थः। ननु "विष्वणती" इत्यत्र कथं षत्वं? केवलदन्त्याऽजन्तसादित्वाऽभावेनाऽषोपदेशतया आदेशसकारत्वाऽभावात्। अवष्वणतीत्यत्र इण्कवर्गाभ्यां परत्वाऽभावान्न षत्वस्य प्रसक्तिः। "सात्पदाद्यो"रिति निषेधाच्चेत्यत आह-- वेश्च स्वन इतीति। तत्र चकारेण "अवाच्चे"त्यपि लभ्यत इति भावः। फणादयो गता इति। "ध्वनतेः प्रा"गिति शेषः। ततश्च ध्वनेर्न फणादिकार्यमिति भावः। तदाह--दध्वनतुरिति। षम ष्टमेति। षोपदेशौ।तस्तामेति। सत्वे सति ष्टुत्वनिवृत्तिरिति भावः। तैक्ष्ण्यमिति। तीक्ष्णीभवनमित्यर्थः। टल ट्वल। वैक्लव्यं-- भयादिजनितो व्यग्रीभावः। णल। णोपदेशोऽयम्। गन्धः--- गन्धक्रिया। तद्व्यापार इति बन्धुतानुकूलो विवाहादिव्यापार इत्यर्थः। पत्लृधातुस्तवर्गप्रथमान्तः सेट्कः। लुङि लृदित्त्वाच्च्लेरङि कृते अपत् अ त् इति स्थिते-- पतः पुम्। शेषपूरणेन सूत्रं व्याचष्टे-- अङि परे इति। "ऋदृशोऽङी"इत्यतस्तदनुवृत्तेरिति भावः। पतेः पुम् स्यादङि परे इति फलितम्। पुमि मकार इत्। उकार उच्चारणार्थः। मित्त्वादन्त्यादचः परः। तदाह--अपप्तदिति। क्वथे। जलक्षीरघृतादीनां पादमुदित्। तेन "उदितो वे"ति क्त्वायामिड्विकल्पो न। "गृ? निगरणे" इति दीर्घान्तोऽयम्। नन्वस्माद्धातोर्ल्युटि "ऋत इद्धातोः" इति इत्त्वं बाधित्वा परत्वात् "सार्वधातुके" इति गुणे सति "उद्गरण" इत्येव निर्देशो युज्यत इत्यत आह-- इहैवेति। "उद्गिरणे" इत्यर्थनिर्देशः पाणिनीय इति सुधाकरो मन्यते। भ्रमु चलने इति। वक्रमार्गसंचारे इत्यर्थः। अयथार्थज्ञानेऽप्ययम्। "उदितो वे"ति क्त्वायामिड्विकल्पार्थमुदित्त्वम्।

तत्त्व-बोधिनी
व्यथो लिटि १६३, ७।४।६८

व्यथो लिटि। हलादिः शेषापवाद इति। हलादिः शेषप्रक्रमणादिति भावः। एवं च "उत्सर्गसदेशश्चापवादःर" इति परस्यैव संप्रसारणं भवति न पूर्वस्येति कैयटाद्युक्त्या "न संप्रसारणे" इति निषेदोऽत्र नापेक्षितः। केचित्तु हलादिः शेषेण यकारनिवृत्तावपि वकारस्य सत्त्वात्सूत्रमिदं सावकाशमित्यपवादत्वं न संभवतीति मत्वा "संप्रसारणं तदाश्रयं च कार्यं बलव"दिति वचनाद्धलादिःशेषं बाधित्वा परस्य संप्रसारणे पूर्वस्य निषेधः। "संप्रसारणं तदाश्रयं चे"ति वचनाऽभावे तु "व्यथो लिटी"ति संप्रसारणस्य धातुविशेषप्रत्ययविशेषाश्रयत्वेन, "इग्यण" इति संज्ञाविशेषद्वयाश्रयत्वेन च बह्वपेक्षस्य बहिरङ्गत्वात्संप्रसारणं बाधित्वा हलादिः शेषे जाते वकारस्य संप्रसारणं स्यादित्याहुः। थस्येति। संप्रसारणस्याऽभ्यासान्तर्गतयकारनिवृत्तेरपवादत्वं न तु थकारनिवृत्तेरिति भावः। लिटीति किम्?। विव्यथिषते। इह "सन्यतः" इति इत्त्वम्। वाव्यथ्यते। वाव्यथीति। क्रप कृपायां गतौ। चकाराभावेऽपीहार्थद्वयमित्येव बोध्यमित्याहुः। कदि क्रदि। क्रन्दयति। क्रन्दयति। अक्रन्दि। अक्रान्दि। क्रन्दंक्रन्दम्। क्रान्दंकान्दम्। ञित्वरा। आदित्त्वमिह व्यर्थम्, ह्यस्वोच्चारणेन#आप्यात्मनेपदसिद्धेः। न च निष्ठायाम् "आदितश्च" इतीद्प्रतिषेधार्थमिति शङ्क्यम्। "रुष्यमत्वरे"ति निष्ठायामिटो विकल्पितत्वात्। तूर्णः। त्वरितः। ज्वर रोगे। णौ- ज्वरयति। अज्वरि। अज्वारि। ज्वरं ज्वरम्। ज्वारंज्वारम्। गड सेचने। णौ गडयति। अगडि। अगाडि। गडंगडांगाडंगाडम्। एवमन्यत्राप्यूह्रम्। हेड वेष्टने। उत्सृष्टानुबन्ध इति। तेन वेष्टने "नाग्लोपी"ति निषेधशङ्कैव नास्तीति भावः। णोपदेश एवेति। प्रणटति। प्रणटयति। "नाटी"त्यस्य तु प्रनाटयति। वृद्धिर्निपात्यत इति। तेन "मितां ह्यस्व" इति न प्रवर्तत इति भावः। निपातनात्परत्वादिति। निपातनविषयीभूत "मितां ह्यस्व" इत्यस्मात्परत्वात्। "मितां ह्यस्वः" इत्येतदेव निपातनेन बाध्यते न तु ततः परं "चिण्णमुलो"रित्येतदित्यर्थः। वन च। संभक्तौ पठितस्य हिंसायां मित्त्वार्थोऽनुवादः। वनति। णौ-- वनयति। अवनि। अवानि। वनंवनम्। वानंवानम्। तानादिकस्येति। वनु याचन इत्यस्येत्यर्थः। सामथ्र्यादिति। अनुवादे तु तत्र कृतेनोदित्त्वेन क्त्वायामिड्वकल्पस्य, निष्ठायामिट्प्रतिषेधस्य च सिद्धेः पुनरिदित्करणं व्य्रथं स्यादिति भावः। वनतीत्यादीति। णौ-- वनयति। तानादिकस्य तु -- वनुते। वानयति। मित्त्वविकल्प इति। "ग्लास्नावनुवमां चे"ति गणसूत्रेण। णप्रत्ययार्थमिति। "ज्वलितिकसन्तेभ्यो णः" इति ज्वलादिभ्यो णप्रत्ययार्थम्। द भये। धातोरनेकार्थत्वाद्भ्यार्थकत्वम्। दृणाति। दरयति। तन्नेतीति। माधवस्यायमाशयः-- सूत्रे दीर्घान्त एव पाठः सर्वसंमतः। घटादावपि दीर्घान्त एव सर्वैः पठ()ते। यद्ययं ह्यस्वान्तो भवेत्तर्हि "शृ()दृ()प्रां ह्यस्वो वे"ति ह्यस्वविकल्पविधायके सूत्रे दृ()ग्रहणमनर्थकं स्यात्। धातुद्वयेन दद्रतुः ददरतुरिति रूपद्वयसिद्धः। न च "दृ? विदारणे" इत्यस्य रूपद्वयलाभार्तं दृ()ग्रहणमावश्यकमिति वाच्यं, धातूनामनेकार्थत्वात्समीहितसिद्धेरिति। नृ? नये। नृणाति। नरयति। अनरि। अनारि। नरंनरं। नारंनारम्। श्रै इतीति। अयं हि वक्ष्यमाणो भौवादिकः। लुग्विकरणेति। अत्र व्याचक्षते---"स्वरतिसूती"ति सूत्रे "सूङ" इति पठितेपि द्वयोग्र्रहणे सिद्धे सूतिसूयत्योः पृथग्ग्रहणं व्यर्थं सदिमां परिभाषां ज्ञापयति। नन्वलुग्विकरणं बलीय इति वैपरीत्यं किं न स्यादिति शङ्क्यम्, इष्टानुरोधात्। "सूङ" इति पठिते स्वरतिसाहचर्यादलुग्विकरणस्यैव ग्रहणं स्यान्न तूभयोरित्यपि न शङ्क्यं, साहचर्यस्याऽनत्यत्वात्। तस्मात्पृथग्ग्रहणं व्यर्थं सज्ज्ञापकमेवेति। परिभाषाभ्यामिति। यद्यप्युक्तपरिभाषयोः परस्परविरोधेनाऽप्रवृत्तावपीष्टं सिध्यति, तथाप्यविशेषादुभयोः प्रवृत्तिरप्यत्र युक्तैवेति भावः। मारणतोषण। "निशामन" मित्यस्य शम आलोचन इत्यस्मान्निष्पन्नत्वादाह--- चाक्षुषं ज्ञानमिति। एष्वर्थेष्विति। पशुं संज्ञपयति। मारयतीत्यर्थः। विष्णुं विज्ञपयति। संतोषतीत्यर्थः। संज्ञपयति रूपम्। माधवमते-- दर्शयतीत्यर्थः। मतान्तरे तु बोधयतीत्यर्थः। पर्ज्ञपयति शरम्। तीक्ष्णीकरोतीत्यर्थः। स्यादेतत्---"निशामनं ज्ञापनमात्र" मिति वदतां मते"श्लाघह्नुङ्स्थे"ति सूत्रे "ज्ञीप्स्यमानो बोधयितुमभिप्रेत" इति वृत्तिग्रन्थः सङ्गच्छतां नाम, माधवमते तु तद्ग्रन्थस्य का गतिरित्यत आह-- ज्ञप मिच्चेति। ज्ञापनमिति। एवं च वृत्तिग्रन्थो माधवमतेऽपि सङ्गच्छत इति भावः। मारणादिकं चेति। एतच्च मतान्तराभिप्रायेणोक्तम्। चुरादिषु तु "ज्ञप मिच्च, अयं ज्ञाने ज्ञापने च वर्तते" इति वक्ष्यमाणत्वात्। कथमिति। ज्ञाधातोर्ज्ञपधातोश्च णौ मित्त्वाद्ध्रस्वेन भवितव्यमिति भावः। मित्त्वाऽभावादिति। एवं च बोधने ज्ञापयति , ज्ञपधातोस्तु ज्ञपयतीति रूपद्वयं माधवमते बोध्यम्॥ छदिरुर्जने। "ऊर्ज बलप्राणनयोः"। अत्र छदिर्मित्। चुराद्यन्तर्गणो यौजादिकः। स्वार्थे णिजभाव इति। "आधृषाद्वे"ति वैकल्पिकत्वादिति भावः। लडयति। जिह्वामिति। जिह्वां ज्ञापयतीत्यर्थः। जिह्वयेति। जिह्वया पदार्थान्तरं ज्ञापयतीत्यर्थः। जिह्वाव्यापारे उदाहरणमाह--- लडयति शत्रुमिति। शत्रुमुद्दिश्य गालिदानादिकं [गालनादिकं] करोतीत्यर्थः। लडयति दधीति। उन्मध्नाति। विलोडयतीत्यर्थः। केचित्तु जिह्वाव्यापारे लडयति दधि, उन्मथने तु लडयति शत्रुमिति व्यत्यासेन योजयन्ति। लाडयति पुत्रमिति। शर्करादिदानेनाऽनुकूलयीत्यर्थः। ध्वनिरणी उदाह्मताविति। ध्वनिरव्यवधानेनोदाह्मतः, रणिस्तु अस्वानीति। अस्वनि। अस्वानि। स्वनंस्वनम्। स्वानंस्वानम्।(ग) घटादयो [मितः]। मित्संज्ञा इत्यर्थ इति। अन्ये तु मकारानुबन्धा इति व्याचक्षते। "घटम् चेष्टाया"मिति प्रत्येकं पाठे गौरवादेकत्रैव सर्वेषां मित्संज्ञा, मकारानुबन्धकत्वं वाऽनेन सूत्रेण विधीयत इति भावः। (ग) जनीजृ()ष्क्नसुरञ्जोऽमन्ताश्च। जनीजृ()ष्। जनी प्रादुर्भावे। जृ()ष् वयोहानौ। क्नसु ह्वरणदीप्त्योः। त्रयोऽपि दिवादयः। रञ्ज रागे। दैवादिको भौवादिकश्च। अमन्ताः-- क्रमिगमीत्यादयः। जनयति। जरयति। क्नसयति। रजयति। मृगान्। रञ्जयति पक्षिणः। क्रमयति। गमयति। रमयति।(ग) ज्वलह्वहृलनमामनुपसर्गाद्वा। ज्वलह्वल। एषां मित्त्वमिति। "मित" इत्यनुवृत्तस्येह भाव प्रधानता, "अनुपसर्गा"दिति तु षष्ठ()र्थे पञ्चमीत्येवं क्लेशेन व्याख्येयमिति भावः। "नमोऽनुपसर्गाद्वे" ति पाठान्तरं, तत्र न कश्चित्क्लेशः। प्राप्तविभाषेति। ज्वल दीप्तौ, ह्वल हृल चलने इति त्रयाणां पूर्वपठितत्वात्, नमेस्त्वमन्तत्वादिति भावः। कथं संक्रामयतीति। क्रमेः "नोदात्तोपदेशस्ये"ति वृद्धिप्रतिषेधाद्धञि "क्म" इत्येव भवति, न तु "क्राम" इति पूर्वोक्कतसमाधानस्याऽत्राऽसंभवात्पृथक् प्रश्नः। व्यवस्थितविभाषेत्यादि। क्वचिण्णौ मितां ह्यस्वो न प्रवर्तत इति भावः। वृत्तिकृदिति। केचित्तु घञन्ताक्रमशब्दात्प्रज्ञाद्यणि क्रामशब्दं स्वीकृत्य तस्मात् "तत्करोती"ति णौ सङ्क्रामयतीति। समादधत इति भावः। इतरयोः प्राप्ते इति। वनेः पूर्वं पाठाद्वमेरमन्तत्वाच्चेति भावः। ग्लापयति। ग्लपयति। स्नापयति। स्नपयति। वानयति। वनयति। वामयति। वमयति। शाम्यतिवदिति। यथा शाम्यतिर्निशामयतीत्यादौ दर्शने प्रयुज्यते तथा चुरादिः शमधातुरपि, श्रवणे भविष्यतीत्यर्थः। (ग) यमोऽपरिवेषणे। यच्छतिरिति। "यम उपरमे" इत्यय#ं धातुर्भोजनातोऽन्यत्र। भोजनाशब्दो "ण्यासश्रन्तो यु"ञिति युजन्तो ज्ञेयः। परिवेषणमिह भोजनानुकूलव्यापारस्ततोऽन्यस्मिन्नर्थे मिन्निषेधः। नियमयन्निति। नियमवच्छब्दाण्णिचि विन्मतोर्लुकि शतरि शप्प्रत्यये गुणे च ज्ञेयम्। व्यत्यासः फलित इति। स्वामिमते त्वपरिवेषणे-- आयामयति। परिवेषणे तु -- यमयति ब्राआहृणान्। अवादिपूर्वस्य (ग) स्खदिरवपरिभ्यां च। स्खदेः -- अवस्खदयति। परिस्खदयति। प्रपूर्वस्य तु प्रस्खादयतीत्येवं व्यत्यासो ज्ञेयः। उपेक्ष्यमिति। "न पादम्या"ङिति सूत्रे "आयामयते" इत्युदाह्मत्य वृत्तावुक्तं--- "यमोऽपरिवेषणे इत्यनेन मित्त्वं प्रतिषिध्यते" इति। न्यासेऽपि "तत्र न कम्यमीत्यतो नेत्यनुवर्तते" इत्युक्तम्। एवं हि निषेधानन्तरं पाठ उपपद्यते। अन्यथा "न कमी" त्यतः प्रागेव त्रिसूत्रीं पठेदिति भावः।